हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

Srimad Bhagavad Gita – श्रीमद्भगवद्गीता  
 स्तोत्रम् - Stotras Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Sri Shiva Sahasranama stotram (Uttara Peetika) – श्री शिव सहस्रनाम स्तोत्रम् – उत्तरपीठिका (फलश्रुति)


यथा प्रधानं भगवानिति भक्त्या स्तुतो मया ।
यं न ब्रह्मादयो देवा विदुस्तत्त्वेन नर्षयः ॥ १ ॥

स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ।
भक्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥ २ ॥

ततोऽभ्यनुज्ञां सम्प्राप्य स्तुतो मतिमतां वरः ।
शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥ ३ ॥

नित्ययुक्तः शुचिर्भक्तः प्राप्नोत्यात्मानमात्मना ।
एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥ ४ ॥

ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्परम् ।
स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ॥ ५ ॥

भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः ।
तथैव च मनुष्येषु ये मनुष्याः प्रधानतः ॥ ६ ॥

आस्तिकाः श्रद्दधानाश्च बहुभिर्जन्मभिः स्तवैः ।
भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ॥ ७ ॥

कर्मणा मनसा वाचा भावेनामिततेजसः ।
शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ॥ ८ ॥

उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः ।
शृण्वन्तः श्रावयन्तश्च कथयन्तश्च ते भवम् ॥ ९ ॥

स्तुवन्तः स्तूयमानाश्च तुष्यन्ति च रमन्ति च ।
जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १० ॥

जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ।
उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ ११ ॥

भाविनः कारणे चास्य सर्वयुक्तस्य सर्वथा ।
एतद्देवेषु दुष्प्रापं मनुष्येषु न लभ्यते ॥ १२ ॥

निर्विघ्ना निश्चला रुद्रे भक्तिरव्यभिचारिणी ।
तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ १३ ॥

येन यान्ति परां सिद्धिं तद्भावगतचेतसः ।
ये सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ॥ १४ ॥

प्रपन्नवत्सलो देवः संसारात्तान्समुद्धरेत् ।
एवमन्ये विकुर्वन्ति देवाः संसारमोचनम् ॥ १५ ॥

मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ।
इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ॥ १६ ॥

कृत्तिवासाः स्तुतः कृष्ण तण्डिना शुभबुद्धिना ।
स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ॥ १७ ॥

गीयते च स बुद्ध्येत ब्रह्मा शङ्करसन्निधौ ।
इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ॥ १८ ॥

योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ।
एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् ॥ १९ ॥

या गतिः साङ्ख्ययोगानां व्रजन्त्येतां गतिं तदा ।
स्तवमेतं प्रयत्नेन सदा रुद्रस्य सन्निधौ ॥ २० ॥

अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् ।
एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ॥ २१ ॥

ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे ।
मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् ॥ २२ ॥

महता तपसा प्राप्तस्तण्डिना ब्रह्मसद्मनि ।
तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः ॥ २३ ॥

वैवस्वताय मनवे गौतमः प्राह माधव ।
नारायणाय साध्याय समाधिष्ठाय धीमते ॥ २४ ॥

यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः ।
नाचिकेताय भगवानाह वैवस्वतो यमः ॥ २५ ॥

मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ।
मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन ॥ २६ ॥

तवाप्यहममित्रघ्न स्तवं दद्यां ह्यविश्रुतम् ।
स्वर्ग्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ॥ २७ ॥

नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ।
पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥ २८ ॥

यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः । [भूत्वा]
अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ २९ ॥

इति श्रीमहाभारते अनुशासनपर्वणि महादेवसहस्रनाम स्तोत्रं नाम सप्तदशोऽध्यायः ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright 2019-2025 © sanatanadharm.com All Rights Reserved . Made in India.